Vālmīki Rāmāyaṇa, Araṇya-kāṇḍa, Sarga 12
The exact verses describing Lord Rāma’s meeting with Agastya Muni and the gift of Viṣṇu’s divine bow and the other weapons.
Rāma honours Agastya and the sage receives his guests
Vālmīki Rāmāyaṇa 3.12.24–27
एवम् उक्त्वा महाबाहुः अगस्त्यम् सूर्य वर्चसम् । जग्राह आपतत् तस्य पादौ च रघुनन्दन ॥ ३-१२-२४ ॥ अभिवाद्य तु धर्मात्मा तस्थौ रामः कृतांजलिः । सीतया सह वैदेह्या तदा रामः स लक्ष्मणः ॥ ३-१२-२५ ॥ प्रतिगृह्य च काकुत्स्थम् अर्चयित्वा आसन उदकैः । कुशल प्रश्नम् उक्त्वा च आस्यताम् इति सोऽब्रवीत् ॥ ३-१२-२६ ॥ अग्निम् हुत्वा प्रदाय अर्घ्यम् अतिथिन् प्रतिपूज्य च । वानप्रस्थेन धर्मेण स तेषाम् भोजनम् ददौ ॥ ३-१२-२७ ॥
Rāma touches the feet of radiant Agastya and stands before him with Sītā and Lakṣmaṇa, palms joined. The sage offers his guests a seat, water and food.
Vālmīki Rāmāyaṇa 3.12.30–31
राजा सर्वस्य लोकस्य धर्मचारी महारथः । पूजनीयः च मान्यः च भवान् प्राप्तः प्रिय अतिथिः ॥ ३-१२-३० ॥ एवम् उक्त्वा फलैः मूलैः पुष्पैः च अन्यैः च राघवम् । पूजयित्वा यथा कामम् ततो अगस्त्यः तम् अब्रवीत् ॥ ३-१२-३१ ॥
Agastya calls Rāma a dear and venerable guest and honours Him with fruits, roots and flowers.
Agastya gives Lord Rāma Viṣṇu’s bow and the other weapons
Vālmīki Rāmāyaṇa 3.12.32–34
इदम् दिव्यम् महत् चापम् हेम वज्र विभूषितम् । वैष्णवम् पुरुषव्याघ्र निर्मितम् विश्वकर्मणा ॥ ३-१२-३२ ॥ अमोघः सूर्य संकाशो ब्रह्मदत्तः शर उत्तमः । दत्तो मम महेन्द्रेण तूणी च अक्षय सायकौ ॥ ३-१२-३३ ॥ संपूर्णौ निशितैः बाणैः ज्वलद्भिः इव पावकैः । महा रजत कोशो अयम् असिः हेमविभूषितः ॥ ३-१२-३४ ॥
Agastya shows the great divine bow of Viṣṇu, crafted by Viśvakarmā and adorned with gold and diamonds, along with Brahmā’s arrow, two inexhaustible quivers and a gold-adorned sword given by Indra.
Vālmīki Rāmāyaṇa 3.12.35–37
अनेन धनुषा राम हत्वा संख्ये महासुरान् । आजहार श्रियम् दीप्ताम् पुरा विष्णुर् दिव ओकसाम् ॥ ३-१२-३५ ॥ तत् धनुः तौ च तूणि च शरम् खड्गम् च मानद । जयाय प्रतिगृह्णीष्व वज्रम् वज्रधरो यथा ॥ ३-१२-३६ ॥ एवम् उक्त्वा महा तेजाः समस्तम् तत् वर आयुधम् । दत्त्वा रामाय भगवान् अगस्त्यः पुनर् अब्रवीत् ॥ ३-१२-३७ ॥
The sage says that Viṣṇu once used this bow to defeat mighty demons, asks Rāma to accept all the weapons for victory and gives them to Him.
Complete Sanskrit text of Sarga 12 · Transliteration, word meanings and translation