Vālmīki Rāmāyaṇa, Yuddha-kāṇḍa, Sargas 100–101
The exact passage naming the four herbs, Hanumān’s mountain peak and Suṣeṇa’s treatment of Lakṣmaṇa.
Hanumān brings the mountain peak and Suṣeṇa treats Lakṣmaṇa
Vālmīki Rāmāyaṇa 6.101.31–33
सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम्। पूर्वं हि कथितो योऽसौ वीर जाम्बवता शुभः॥ दक्षिणे शिखरे जातां महौषधिमिहानय। विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा॥ संजीवकरणीं वीर संधानीं च महौषधीम्। संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः॥
Suṣeṇa sends Hanumān for four herbs—Viśalyakaraṇī, Sāvarṇyakaraṇī, Sañjīvakaraṇī and Sandhānī—to restore Lakṣmaṇa to consciousness.
Vālmīki Rāmāyaṇa 6.101.34–42
इत्येवमुक्तो हनुमान्गत्वा चौषधिपर्वतम्। चिन्तामभ्यगमच्छ्रीमानजानंस्ता महौषधीः॥ तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः। इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः॥ अगृह्य यदि गच्छामि विशल्यकरणीमहम्। कालात्ययेन दोषः स्याद्वैक्लब्यं च महद्भवेत्॥ इति सञ्चिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः। आसाद्य पर्वतश्रेष्ठं त्रिः प्रक्रम्य गिरेः शिरः॥ प्रफुल्लनानातरुगणं समुत्पाट्य महाबलः। गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत्॥ समागम्य महावेगः संन्यस्य शिखरं गिरेः। विश्रम्य किंचिद्धनुमान् सुषेणमिदमब्रवीत्॥ ओषधीर्नावगच्छामि ता अहं हरिपुङ्गव। तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया॥
Unable to identify the herbs and unwilling to lose time, mighty Hanumān uproots the peak covered with flowering trees. On returning, he sets it down and tells Suṣeṇa that he brought the whole summit.
Vālmīki Rāmāyaṇa 6.101.43–48
एवं कथयमानं तं प्रशस्य पवनात्मजम्। सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः॥ ततः सङ्क्षोदयित्वा तामोषधिं वानरोत्तमः। लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः॥ सशल्यः स समाघ्राय लक्ष्मणः परवीरहा। विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात्॥ एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा। सस्वजे स्नेहगाढं च बाष्पपर्याकुलेक्षणः॥
Suṣeṇa takes and crushes the herb and administers it through Lakṣmaṇa’s nose. Lakṣmaṇa rises free of the weapon and pain, and Rāma embraces him with tears of affection.